8. विश्वजित् - இது अग्निष्टोमவிகிருதி. இதில் ஆறு पृष्ठसामங்களும் गानம்பண்ணப்படுகின்றன. அவைகளுக்கு स्थानம் - माध्यन्दिनपवमानத்தில் रथन्तरம்; वैराजம், शाक्वरம், वैरूपம், रैवतம் पृष्ठ ஸாமங்கள்; आर्भवपवमानத்தில் बृहत् - இதற்கு उत्पत्तिविधिயில் பலன் சொல்லவில்லை. சுவர்க்கம் பலன் என்று தீர்மானம். தக்ஷிணை सर्वस्वம். அது இன்னதென்று விசாரிக்கப் படுகிறது. (ताण्ड्य.ब्रा.अध्या-16, खण्डः-4,5,6; मीमांसा.अध्या-4, पा-3, अधि-5,6,7; अध्या-6, पा-7, अधि-1 முதல் ஆறும், 10 வதும்; अध्या-7, पा-3, अधि-3; अध्या-10, पा-6, अधि-5).

(ताण्ड्य.ब्रा.अध्यायः-16,खण्डः- 4 to 6 )
खण्डः- 4
1. प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानां च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
2. तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवं वेद
3. सोऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्यादिति तां अस्मै स्रजं प्रत्यमुञ्चत्ततो वा इन्द्राय प्रजाः श्रैष्ठ्यायातिष्ठन्त तच्छिल्पं पश्यन्त्यो यत्पितर्यपश्यन्
4. तस्माद्यः पुत्राणां दायं धनतमं इवोपैति तं मन्यन्तेऽयं एवेदं भविष्यतीति
5. ततो वा इदं इन्द्रो विश्वं अजयद्यद्विश्वं अजयत्तस्माद्विश्वजित्
6. सोऽकामयत यन्मेऽनभिजितं तदभिजयेयं इति स एतं अभिजितं अपश्यत्तेनानभिजितं अभ्यजयत्
7. यदभिजिद्भवत्यनाभिजितस्याभिजित्यै
8. तौ वा एताविन्द्रस्तोमौ वीर्यवन्तौ शिल्पं वा एतौ नाम स्तोमावास्ताम्
9. पश्यते गृहे शिल्पं य एवं वेद
10. न वै यमौ नाम स्तोमौ स्तो यो यमाभ्यां यजेतैताभ्यां यजेत समृध्यै
11. पुनरभ्यावर्तं स्तोमा भवन्ति पुनरभ्यावर्तं ह्येताभ्यां इन्द्रोऽजितं अजयत्
12. त्रींस्त्रिवृदभिजितः प्रणयति त्रीन्पञ्चदशः त्रीन्सप्तदशः त्रीनेकविंशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः प्रजापतिः प्रजापतिं एवाप्नोति
13. चतुरस्त्रिवृद्विश्वजितः प्रणयति चतुरः पञ्चदशश्चतुरः सप्तदशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिं एवाप्नोति
खण्डः- 5
1. उप त्वा जामयो गिरऽऽ इत्युपवती प्रतिपद्भवति स्तोमस्य रूपम्
2. प्राणैर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति सर्वान्स्तोमान्सर्वाणि पृष्ठान्युपैतीति यद्वायव्या भवति प्राणानां समृध्यै
3. सरस्वतश्च सरस्वत्याश्चोत्तरे भवतः
4. मिथुनं वा एतद्यत्सरस्वांश्च सरस्वती च मिथुनं एवास्य यज्ञमुखे दधाति प्रजननाय
5. सावित्री चतुर्थी भवति
6. दुष्करं वा एष करोति यः सर्वं ददाति यत्सावित्री भवति सवितृप्रसृतं मे कर्मासदिति सवितृप्रसूतं एवास्य कर्म भवति
7. ब्राह्मणस्पत्या पञ्चमी भवति
8. ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मैवास्य यज्ञमुखे दधाति
9. आग्निपावमानी षष्ठी भवति
10. अग्निरेवैनं निष्टपति पवमानः पुनाति पूतं एवैनं यज्ञियं पृष्ठान्युपनयति
11. यन्ति वा एते पथ इत्याहुर्ये संभार्याः कुर्वते
12. पावमान उत्तमस्तृचो भवति तेन पथो नयन्ति
13. स तु वै पृष्ठैः स्तुवीतेत्याहुर्य एतानि बहिष्पवमाने युञ्ज्यादिति
14. उपवती प्रतिपद्भवत्युप वै रथन्तरं रथन्तरं एवास्मै तया युनक्ति
15. सरस्वती द्वितीया भवति स्वर्गो लोकः सरस्वान्स्वर्गो लोको बृहद्बृहदेवास्मै तया युनक्ति
16. सरस्वत्यास्तृतीया भवति वाग्वै सरस्वती वाग्वैरूपं वैरूपं एवास्मै तया युनक्ति
17. सावित्री चतुर्थी भवति प्रजापतिर्वै सविता प्रजापतिर्वैराजं वैराजं एवास्मै तया युनक्ति
18. ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्म शक्वर्यः शक्वरीरेवास्मै तया युनक्ति
19. आग्निपावमानी षष्ठी भवति गायत्री वै रेवती गायत्रच्छन्दा अग्नी रेवतीरेवास्मै तया युनक्ति
20. न चत्वारि षड्भ्यो विभवन्ति यदनिरुक्तानि तेन विभवन्ति
21. सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै
22. ऽऽसुषमिद्धो न आवह-ऽऽ इत्याप्रिय आज्यानि भवन्ति
23. प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतान्याप्रिय आज्यान्यपश्यत्तैरात्मानं [थुस्Bी KSSआत्मनम्] आप्रीणाद्दुग्ध इव वा एष रिरिचानो यः सर्वं ददाति यदाप्रिय आज्यानि भवन्त्यात्मानं एवैतैराप्रीणाति
24. एतर्हि तु वै पृष्ठानि यथायतनं कल्पन्त इत्याहुर्यद्रथन्तरं प्रथमं बृहदुत्तमं मध्य इतराणीति
24. जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत्सर्वाणि निधनवन्ति सह क्रियन्त इति यदन्तरा सोमा यन्त्यन्तरोक्थानि शस्यन्तेऽन्तरा वषट्कुर्वन्ति तेनाजामि
26. व्यत्यासं इडाश्च निधनानि चाहुस्तेनाजामि
27. च्यवन्ते वा एतद्रेवत्यः स्वादायतनादित्याहुर्यत्त्रयस्त्रिंशात्स्तोमाद्यन्तीति यद्गायत्र्यो भवन्ति तेनायतनान्न च्यवन्ते या हि का च गायत्री सा रेवती
खण्डः- 6
1. परशुभिर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति तच्छवीं परिधत्ते पशुभिरेव समृध्यते
2. रोहिणी छवी भवत्येतद्वै पशुनां भूयिष्ठं रूपं यद्रोहितं साक्षादेवैनानवरुन्धे
3. अरण्ये तिस्रो वसत्यारण्यं ताभिरन्नाद्यं अवरुन्धे
4. उदुम्बरे वसत्यूर्गुदुम्बर ऊर्जं एवावरुन्धे
5. खनित्रेण जीवत्यवृत्तिं अपजयति
6. उभयतःक्ष्णुदभ्रिर्भवत्युभयत एवास्मा अन्नाद्यं रजत्यस्माच्च लोकादमुष्माच्च
7. निषादेषु तिस्रो वसत्यस्यां वा एते परीत्ता यदेवास्यां अन्नाद्यं तदवरुन्धे
8. जने तिस्रो वसति जन्यं ताभिरन्नाद्यं अवरुन्धे
9. समानजने तिस्रः समानजन्यं ताभिः
10. द्वादशैता रात्रयो भवन्ति द्वादशमासाः संवत्सरः संवत्सरं अन्वन्नाद्यं प्रजायते तदेवाप्त्वावरुन्धे
11. संवत्सरं न याचेदामाद्यं इव वा एतद्यः सद्योदत्तं प्रत्यत्ति सद्यो वै देवानं संवत्सरः
12. नोदीयमानं प्रति नुदेन्नाद्यस्याप्रतिनोदाय
13. उष्णीषं बिभर्ति शिल्पत्वाय
14. न मृन्मयेन पिबेदाहुतिर्वा एषा यद्ब्राह्मणस्य मुखं न वै मृन्मयं आहुतिं आनशेऽथ यदमृन्मयपो भवति स्व एव मुख आहुतिं जुहोति

मीमांसा.अध्या-4, पा-3 , अध्या-5,6,7) - विश्वजिन्न्यायः विश्वजिदादीनां सफलत्वाधिकरणम्
4.3.5.10 - चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्यशब्दं प्रतीयते ॥
4.3.5.11 - अपि वाऽम्नानसामर्थ्याच्चोदनार्थेन गम्येतार्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्तेऽर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धस्तस्माच्छ्रुत्येकदेशः सः ॥
4.3.5.12 - वाक्यार्थश्च गुणार्थवत् ॥
4.3.6.13 - तत्सर्वार्थमनादेशात् ॥
4.3.6.14 - एकं वा चोदनैकत्वात् ॥
4.3.7.15 - स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात् ॥
4.3.7.16 - प्रत्ययाच्च ॥

मीमांसा.अध्या.6, पा.7, अध्या-1 முதல் ஆறும், 10 வதும்) - विश्वजिति पित्रादीनामदेयत्वाधिकरणम् ; विश्वजिति दक्षिणादानोत्तराङ्गानामनुष्ठानाधिकरणम्
6.7.1.1 स्वदाने सर्वमविशेषात् ॥
6.7.1.2 यस्य वा प्रभुः स्यादितरस्याऽशक्यत्वात् ॥
6.7.2.3 न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वात् ॥
6.7.3.4 अकार्यत्वाच्च ततः पुनर्विशेषः स्यात् ॥
6.7.4.5 नित्यत्वाच्चानित्यैर्नास्ति संबंधः ॥
6.7.5.6 शूद्रश्च धर्मशास्त्रत्वात् ॥
6.7.7.10 तथा चान्यार्थदर्शनम् ॥

मीमांसा(अध्या.7, पा.3, அதி-3) - सर्वपृष्ठशब्देन षट्पृष्ठानामतिदेशाधिकरणम्
7.3.3.6 - विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज्ज्यौतिष्टोमिकानि पृष्ठान्यस्ति च पृष्ठशब्दः ॥
7.3.3.7 - षडहाद्वा तत्र हि चोदनाः ॥
7.3.3.8 - लिङ्गाच्च ॥
7.3.3.9 - उत्पन्नाधिकारो ज्योतिष्टोमः ॥
7.3.3.10 - द्वयोर्विधिरिति चेत् ॥
7.3.3.11 - न व्यर्थत्वात् सर्वशब्दस्य ॥

मीमांसा(अध्या.10, पा.6, அதி-5)
10.6.5.13 - सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् ॥
10.6.5.14 - विधेस्तु विप्रकर्षः स्यात् ॥

Go to Main Page